(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.109. अध्यायः 109
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मदुर्योधनसंवादः ॥ 1 ॥ भीष्मपराक्रमवर्णनम् ॥ 2 ॥


Mahabharata - Bhishma Parva - Chapter Text

धृतराष्ट्र उवाच। 6-109-0x(4220)(43797)
कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् ।
पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ॥ 6-109-1(43798)
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधाः।
त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ॥ 6-109-2(43799)
कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि।
अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः ॥ 6-109-3(43800)
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना ।
कच्चिन्न रथमद्गोऽस्व धनुर्वाऽशीर्यतास्थतः ॥ 6-109-4(43801)
सञ्जय उवाच। 6-109-5x(4221)
नाशीर्यत धनुश्चास्य रथभङ्गो न चाप्यभूत्।
युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ।
निघ्नतः समरे शत्रून्शरैः सन्नतपर्वभिः॥ 6-109-5(43802)
अनेकशतसाहस्रावकानां महारथाः ।
तथा दन्तिगणा राजन्हायश्चैव सुसञ्जिताः॥ 6-109-6(43803)
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ॥ 6-109-7(43804)
यथाप्रतिज्ञं कौरव्य स चापि समिर्तिजयः ।
पार्यानामकरोद्भीष्मः सततं समिति क्षयम् ॥ 6-109-8(43805)
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः ।
पाञ्चालाः पाण्डवैः सार्ध सर्वतः पर्यवारयन् ॥ 6-109-9(43806)
दशमेऽहनि संप्राप्ते ततस्तां रिपुवाहिनीम् ।
कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ॥ 6-109-10(43807)
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज ।
अशक्नुवन्रणे जेतुं पाशहस्तमिवानतकम् ॥ 6-109-11(43808)
अथोपायान्महाराज सव्यसाची धनञ्जयः ।
त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ॥ 6-109-12(43809)
सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः ।
शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥ 6-109-13(43810)
तस्य शब्देन वित्रस्तास्तावका भारतर्षभ ।
सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ॥ 6-109-14(43811)
जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् ।
दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥ 6-109-15(43812)
एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः।
दहते मामकान्सर्वान्कृष्णवर्त्मेन काननम् ॥ 6-109-16(43813)
पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः ।
पण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ॥ 6-109-17(43814)
यथा पशुगणान्पालः संकालयति कानने ।
तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥ 6-109-18(43815)
धनञ्जयशरैर्भग्नं द्रवमाणं ततस्ततः ।
भीमोऽप्येवं दुराधर्पो विद्रावयति मे बलम् ॥ 6-109-19(43816)
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ।
अभिमन्युः सुविक्रान्तो वाहिनीं द्रवते मम ॥ 6-109-20(43817)
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः ।
व्यद्रावयेतां सहसा सैन्यं मम महारणे ॥ 6-109-21(43818)
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महारथैः ।
नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ॥ 6-109-22(43819)
ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रमम्।
पर्याप्तस्तु भवाञ्शीघ्रं पीडितानां गतिर्भव ॥ 6-109-23(43820)
सञ्जय उवाच। 6-109-24x(4222)
एवमुक्तो महाराज पिता देवव्रतस्तव।
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ॥ 6-109-24(43821)
तव संधारयन्पुत्रमब्रवीच्छंतनोः सुतः।
दुर्योधन विजानीहि स्थिरो भूत्वा विशांपते ॥ 6-109-25(43822)
`पातयिष्ये रिपूनन्यान्पाण्डवान्प्रतिपालयन् ।
प्रतिज्ञातो जयो ह्यद्य पाण्डवानां महात्मनाम् ॥' 6-109-26(43823)
पूर्वकालं तव मया प्रतिज्ञानं महाबल ।
हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम् ॥ 6-109-27(43824)
संग्रामादपयास्यामि ह्येतत्कर्म समाहितम् ।
इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥ 6-109-28(43825)
अद्य चापि महत्कर्म प्रकरिष्ये यथाबलम् ।
अहं वाऽद्य हतः शेष्ये हनिष्ये वाऽद्य पाण्डवान् ॥ 6-109-29(43826)
`अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः।'
किं पुनर्मर्त्यधर्मेण क्षत्रियेण महाबलाः ॥ 6-109-30(43827)
अद्य ते पुरुषव्याघ्र प्रतरिष्ये ऋणं तव।
भर्तृपिण्डकृतं राजन्निहताः पृतनामुखे ॥ 6-109-31(43828)
सञ्जय उवाच। 6-109-32x(4223)
इत्युक्त्वा भरतश्रेष्ठ क्षत्रियान्प्रवपञ्छरैः।
आससाद दुराधर्षः पाण्डवानामनीकिनीम् ॥ 6-109-32(43829)
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भारतर्षभ ।
आशीविषमिव क्रुद्धं पाण्डवाः प्रत्यवारयन् ॥ 6-109-33(43830)
दशमेऽहनि भीष्मस्तु दर्शयञ्शक्तिमात्मनः ।
राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ॥ 6-109-34(43831)
पाञ्चालानां च ये श्रेष्ठा राजपुत्रा महारथाः ।
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ॥ 6-109-35(43832)
हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम् ।
सारोहाणां महाराज हयानां चायुतं तथा ॥ 6-109-36(43833)
पूर्णे शतसहस्रे द्वे पादातानां नरोत्तमः ।
प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥ 6-109-37(43834)
न चैवं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् ।
उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ॥ 6-109-38(43835)
ते पाण्डवेवाः संरब्धा महेष्वासेन पीडिताः ।
वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ॥ 6-109-39(43836)
स वध्यमानो बहुभिर्भीष्मः शान्तनवस्तथा ।
अवकीर्णो महेष्वासैः शैलो मेघैरिवावृतः ॥ 6-109-40(43837)
पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् ।
महत्या सेनया सार्धं ततो युद्धमवर्तत ॥ ॥ 6-109-41(43838)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे नवाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-109-8 समितिंजयः संग्रामजित्। समिति युद्धे ॥ 6-109-20 द्रवते द्रावयति ॥ 6-109-22 गतिं धाम। आश्रयमिति यावत्। स्थाने अवस्थाने ॥ 6-109-29 शेष्ये स्वप्स्यामि ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.